Balendra mishra's Album: Wall Photos

Photo 16 of 20 in Wall Photos

.
*_श्री रासाष्टकम्_*

*_प्रमोदारण्य चासीनौ ,अनन्त ललनावृतौ ।_*
*_चन्द्रसूर्य प्रतीकाशौ,सीतारामौ स्मराम्यहम्।।_*

*_रसमयौ सदानित्यौ , रसदौ रस वर्धनौ ।_*
*_मोहनौ रस भोक्तारौ,सीतारामौ स्मराम्यहम्।।_*

*_मन्दस्मितौ महाशक्तौ ,मोदयन्तौ परस्परम्।_*
*_स्फुरत्कुण्डलौ रम्यौ,सीतारामौ स्मराम्यहम्।।_*

*_रासगोष्ठयां रसाकारौ ,नृत्यन्तौ सुमनोहरौ ।_*
*_गायन्तौ मोदयन्तौ च,सीतारामौ स्मराम्यहम्।।_*

*_स्वरेण आ आ कुर्वन्तौ ,वेणुवादन तत्परौ ।_*
*_रणन्नूपुर मन्जीरौ, सीतारामौ स्मराम्यहम् ।।_*

*_कामकेलि कलादक्षौ ,रास रंग सुचातुरौ ।_*
*_वंशी निनाद तत्वज्ञौ,सीतारामौ स्मराम्यहम् ।।_*

*_स्वर्ण वैदूर्य शोभाढ्यौ ,जगन्मोहन मोहनौ ।_*
*_प्राणप्राणौ सुखसुखौ,सीतारामौ स्मराम्यहम्।।_*

*_जननाञ्च प्रहर्षयन्तौ ,विपरीत क्रियाकरौ ।_*
*_स्वरामाणां च सर्वस्वौ,सीतारामौस्मराम्यहम् ।।_*

*_रासध्यानाष्टकमिदं ,कामघ्नं सीतारामयो: ।_*
*_रचितं,(श्री)रामहर्षेण,प्रेमाभक्ति प्रदं सदा।।_*

*_रामबालक दास_*
*_"श्री सद्गुरु ग्रंथ सेवा" ग्रुप_*